Saturday, October 31, 2009

यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्

यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्।
न हि कस्तुरिकामोदः शपथेन विभाव्यते॥

अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत्

अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत्।
गृहीतं इव केशेषु मृत्युना धर्ममाचरेत्॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम्॥

लभेत सिकतासु तैलमपि यत्नतः पीडयन्

लभेत सिकतासु तैलमपि यत्नतः पीडयन् ।
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः॥
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्।
न तु प्रतिनिविष्टमूर्खजनचितमाराधयेत्॥

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय् सता विभूतयः॥

रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जना

रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जना।
एते परोपकाराय युगे देवेन निर्मिता॥

Saturday, October 24, 2009

परिवर्तिनि संसारे मृतः को वा न जायते

परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन् जातेन याति वंशः समुन्नतिम् ॥

अल्पज्ञः पूज्यते ग्रामे विशेषज्ञविवर्जिते

अल्पज्ञः पूज्यते ग्रामे विशेषज्ञविवर्जिते ।
देशे वृक्षविनाभूतेऽप्येरण्डो हि वनस्पति: ॥

यस्य पातुं जलं न स्यात् क्षीरं वितरेत् कथम्

यस्य पातुं जलं न स्यात् क्षीरं वितरेत् कथम् ।
यस्स्वयं चलचित्तस्य स्थैर्यं नोपदिशेत् परम् ॥

यस्य - whose
पातुं - to drink
जलं - water
न - no
स्यात् - to be
क्षीरं - milk
वितरेत् - distribute/give
कथम् - how
यस्स्वयं - यः + स्वयम्
---------- यः - who
---------- स्वयम् - self
चलचित्तस्य - of fickle mind
स्थैर्यं - firmness/stability
नोपदिशेत् - न + उपदिशेत्
--------- न - does not (can not)
--------- उपदिशेत् - advise
परम् - others


Meaning: How can he, who has no water to drink, distribute milk? One who himself is fickle minded cannot advise firmness to others.

मन्दोऽपि धीमतस्सङगात् वीतमाद्यो भवेन्नरः

मन्दोऽपि धीमतस्सङगात् वीतमाद्यो भवेन्नरः ।
प्रसीदेत् कतकासङात् प्रभूतं कलुषं जलम् ॥

Wednesday, October 21, 2009

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

उदारस्य तृणं वित्तं शूरस्य मरणं तृणं

उदारस्य तृणं वित्तं शूरस्य मरणं तृणं ।
विरक्तस्य तृणं भार्या निस्पृहस्य तृणं जगत् ॥

For a generous person, money or wealth is insignificant (is equivalent to grass). For a brave person, death has no value (or it is no cause of worry). For a selfless (virakta) person, his family is insignificant. And for a person who has no desires, thi world is of no interest.

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन ।
विभाति कायः करूणापराणाम् परोपकारैर्न तु चंदनेन ॥

तैलाद् रक्षेत् जलाद् रक्षेत् रक्षेत् शिथिल बंधनात्

तैलाद् रक्षेत् जलाद् रक्षेत् रक्षेत् शिथिल बंधनात् ।
मूर्ख हस्ते न दातव्यं एवं वदति पुस्तकम् ॥

अयं निज: परो वेति गणना लघुचेतसाम्

अयं निज: परो वेति गणना लघुचेतसाम्।
उदारमनसानां तु वसुधैव कुटुंबकम्॥

This is mine or (somebody) else’s (is the way) narrow minded people count. But for broad minded people, (whole) earth is (like their) family.

वृत्तं यत्नेन संरक्षेद् वित्तमायाति याति च

वृत्तं यत्नेन संरक्षेद् वित्तमायाति याति च ।
अक्षीणो वित्ततं क्षीणो वृत्ततस्तु हतो हतः ॥

अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन

अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥

Yaksha had asked Yudhishthira, "What is the news?"
In answer to that Yudhishthira said -
In this frying pan of great illusion (the world), Time is cooking the creatures with the fire of the sun and having day and night as it's fuel and the months and seasons constituting the ladle. This is news. Time consumes everything and hence one should utilize the available little time for his own emancipation. Many people do not realsise that they are gradually being consumed by time and hence that is the news deserving widest publicity.

जलान्तश्चन्द्रचपलं जीवनं खलु देहिनाम्

जलान्तश्चन्द्रचपलं जीवनं खलु देहिनाम् ।
तथाविधिमिति त्वाशाश्वत्कल्याणमाचरेत् ॥

Life of a man is like shaky reflection of moon in the water (is very short, and unstable). Knowing this, humans should always keep on doing a long lasting work that benefits the society.

भो दारिद्रयः नमस्तुभ्यं

भो दारिद्रयः नमस्तुभ्यं धन्योहं तव प्रसादत: ।
पश्यामि जगत्सर्वं न तु मां पश्यति जगत्रय: ॥

त्रीणि शिक्षेत् गर्दभात् |

अविश्रान्तम् वहेद् भारम् शीतोष्णं च न विन्दति ।
ससन्तोषस्तथा नित्यम् त्रीणि शिक्षेत् गर्दभात् ॥